(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.87. अध्यायः 087
Mahabharata - Adi Parva - Chapter Topics
वसुमतः शिबेश्च ययातिना संवादः॥ 1 ॥ पुनरष्टकययातिसंवादः॥ 2 ॥ तत्रागतया माधव्या स्वपुत्रान्प्रति यया तेर्मातामहत्वकथनम्॥ 3 ॥ तद्वचनेन ययातेरष्टकादिदत्तपुण्यस्वीकारपूर्वकमष्टकादिभिः सह स्वर्गगमनम्॥ 4 ॥ ययातिना मार्गे अष्टकादीन्प्रति विस्तरेण स्ववृत्तान्तकथनम्॥ 5 ॥ ययात्युपाख्यानश्रवणादिफलकथनम्॥ 6 ॥
Mahabharata - Adi Parva - Chapter Text

वसुमानुवाच। 1-87-0x(539)(3793)
पृच्छामि त्वां वसुमानौषदश्वि-
र्यद्यस्ति लोको दिवि मे नरेन्द्र।
यद्यन्तरिक्षे प्रथितो महात्मन्
क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये॥ 1-87-1(3794)
ययातिरुवाच। 1-87-2x(540)
यदन्तरिक्षं पृथिवी दिशश्च
यत्तेजसा तपते भानुमांश्च।
लोकास्तावन्तो दिवि संस्थिता वै
तेनान्तवन्तः प्रतिपालयन्ति॥ 1-87-2(3795)
वसुमानुवाच। 1-87-3x(541)
तांस्ते ददानि मा प्रपत प्रपातं
ये मे लोकास्तव ते वै भवन्तु।
क्रीणीष्वैतांस्तृणकेनापि राज-
न्प्रतिग्रहस्ते यदि धीमन्प्रदुष्टः॥ 1-87-3(3796)
ययातिरुवाच। 1-87-4x(542)
न मिथ्याऽहं विक्रयं वै स्मरामि
वृथा गृहीतं शिशुकाच्छङ्कमानः।
कुर्यां न चैवाकृतपूर्वमन्यै-
र्विधित्समानः किमु तत्र साधुः॥ 1-87-4(3797)
वसुमानुवाच। 1-87-5x(543)
तांस्त्वं लोकान्प्रतिपद्यस्व राज-
न्मया दत्तान्यदि नेष्टः क्रयस्ते।
अहं न तान्वै प्रतिगन्ता नरेन्द्र
सर्वे लोकास्तव ते वै भवन्तु॥ 1-87-5(3798)
शिबिरुवाच। 1-87-6x(544)
पृच्छामि त्वां शिबिरौशीनरोऽहं
ममापि लोका यदि सन्तीह तात।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः
क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये॥ 1-87-6(3799)
ययातिरुवाच। 1-87-7x(545)
यत्त्वं वाचा हृदयेनापि साधू-
न्परीप्समानान्नावमंस्था नरेन्द्र।
तेनानन्ता दिवि लोकाः श्रितास्ते
विद्युद्रूपाः स्वनवन्तो महान्तः॥ 1-87-7(3800)
शिबिरुवाच। 1-87-8x(546)
तांस्त्वं लोकान्प्रतिपद्यस्व राज-
न्मया दत्तान्यदि नेष्टः क्रयस्ते।
न चाहं तान्प्रतिपत्स्ये ह दत्त्वा
यत्र गत्वा नानुशोचन्ति धीराः॥ 1-87-8(3801)
ययातिरुवाच। 1-87-9x(547)
यथा त्वमिन्द्रप्रतिमप्रभाव-
स्ते चाप्यनन्ता नरदेव लोकाः।
तथाऽद्य लोके न रमेऽन्यदत्ते
तस्माच्छिबे नाभिनन्दामि दायम्॥ 1-87-9(3802)
अष्टक उवाच। 1-87-10x(548)
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि।
सर्वे प्रदाय भवते गन्तारो नरकं वयम्॥ 1-87-10(3803)
ययातिरुवाच। 1-87-11x(549)
यदर्होऽहं तद्यतध्वं सन्तः सत्याभिनन्दिनः।
अहं तन्नाभिजानामि यत्कृतं न मया पुरा॥ 1-87-11(3804)
अष्टक उवाच। 1-87-12x(550)
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः।
यानारुह्य नरो लोकानभिवाञ्छति शाश्वतान्॥ 1-87-12(3805)
ययातिरुवाच। 1-87-13x(551)
युष्मानेते वहिष्यन्ति रथाः पञ्च हिरण्मयाः।
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव॥ 1-87-13(3806)
`वैशम्पायन उवाच। 1-87-14x(552)
अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा।
हयस्य यानि चाङ्गानि संनिकृत्य यथाक्रमम्॥ 1-87-14(3807)
होताऽध्वर्युरथोद्गाता ब्रह्मणा सह भारत।
अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः॥ 1-87-15(3808)
धूमगन्धं च पापिष्ठा ये जिघ्रन्ति नरा भुवि।
विमुक्तपापाः पूतास्ते तत्क्षणेनाभवन्नराः॥ 1-87-16(3809)
एतस्मिन्नन्तरे चैव माधवी सा तपोधना।
मृगचर्मपरीताङ्गी परिधाय मृगत्वचम्॥ 1-87-17(3810)
मृगैः परिचरन्ती सा मृगाहारविचेष्टिता।
यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता॥ 1-87-18(3811)
आघ्रायन्ती धूमगन्धं मृगैरेव चचार सा।
यज्ञवाटमटन्ती सा पुत्रांस्तानपराजितान्॥ 1-87-19(3812)
पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी।
असंस्पृशन्तं वसुधां ययातिं नाहुषं यदा॥ 1-87-20(3813)
दिविष्ठं प्राप्तमाज्ञाय ववन्दे पितरं तदा।
तदा वसुमनापृच्छन्मातरं वै तपस्विनीम्॥ 1-87-21(3814)
भवत्या यत्कृतमिदं वन्दनं पादयोरिह।
कोयं देवोपमो राजा याऽभिवन्दसि मे वद॥ 1-87-22(3815)
माधव्युवाच। 1-87-23x(553)
शृणुध्वं सहिताः पुत्रा नाहुषोयं पिता मम।
ययातिर्मम पुत्राणां मातामह इति स्मृतः॥ 1-87-23(3816)
पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः।
केन वा कारणेनैवमिह प्राप्तो महायशाः॥ 1-87-24(3817)
वैशम्पायन उवाच। 1-87-25x(554)
तस्यास्तद्वचनं श्रुत्वा स्वर्गाद्भ्रष्टेति चाब्रवीत्।
सा पुत्रस्य वचः श्रुत्वा संभ्रमाविष्टचेतना॥ 1-87-25(3818)
माधवी पितरं प्राह दौहित्रपरिवारितम्।
तपसा निर्जिताँल्लोकान्प्रतिगृह्णीष्व मामकान्॥ 1-87-26(3819)
पुत्राणामिव पौत्राणां धर्मादधिगतं धनम्।
स्वार्थणेव वदन्तीह ऋषयो धर्मपाठकाः।
तस्माद्दानेन तपसा चास्माकं दिवमाव्रज॥ 1-87-27(3820)
ययातिरुवाच। 1-87-28x(555)
यदि धर्मफलं ह्येतच्छोभनं भविता तव।
दुहित्रा चैव दौहित्रैस्तारितोऽहं महात्मभिः॥ 1-87-28(3821)
तस्मात्पवित्रं दौहित्रमद्यप्रभृति पैतृके।
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः॥ 1-87-29(3822)
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम्।
भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः॥ 1-87-30(3823)
दिवसस्याष्टमे भागे मन्दीभवति भास्करे।
स कालः कुतपो नाम पितॄणां दत्तमक्षयम्॥ 1-87-31(3824)
तिलाः पिशाचाद्रक्षन्ति दर्भा रक्षन्ति राक्षसात्।
रक्षन्ति श्रोत्रियाः पङ्क्तिं यतिभिर्भुक्तमक्षयम्॥ 1-87-32(3825)
लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्रतं शुचिम्।
स कालः कालतो दत्तं नान्यथा काल इष्यते॥ 1-87-33(3826)
वैशम्पायन उवाच। 1-87-34x(556)
एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान्।
सर्वे ह्यवभृथस्नातास्त्वरध्वं कार्यगौरवात्॥' 1-87-34(3827)
अष्टक उवाच। 1-87-35x(557)
आतिष्ठ स्वरथं राजन्विक्रमस्व विहायसम्।
वयमप्यनुयास्यामो यदा कालो भविष्यति॥ 1-87-35(3828)
ययातिरुवाच। 1-87-36x(558)
सर्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम्।
एष नो विरजाः पन्था दृश्यते देवसद्मनः॥ 1-87-36(3829)
वैशम्पायन उवाच। 1-87-37x(559)
`अष्टकश्च शिबिश्चैव काशेयश्च प्रतर्दनः।
ऐक्ष्वाकवो वसुमनाश्चत्वारो भूमिपास्तदा।
सर्वे ह्यवभृथस्नाताः स्वर्गताः साधवः सह॥' 1-87-37(3830)
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपस्तमाः।
आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी॥ 1-87-38(3831)
अष्टक उवाच। 1-87-39x(560)
अहं मन्ये पूर्वमेकोऽस्मि गन्ता
सखा चेन्द्रः सर्वथा मे महात्मा।
कस्मादेवं शिबिरौशीनरोऽय-
मेकोऽत्यगात्सर्ववेगेन वाहान्॥ 1-87-39(3832)
ययातिरुवाच। 1-87-40x(561)
अददद्याचमानाय यावद्वित्तमविन्दत।
उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठोहि वः शिबिः॥ 1-87-40(3833)
दानं तपः संत्यमथाऽपि धर्मो
ह्रीः श्रीः क्षमा सौम्यमथो विधित्सा।
राजन्नेतान्यप्रमेयाणि राज्ञः
शिबेः स्थितान्यप्रतिमस्य बुद्ध्या॥ 1-87-41(3834)
एवं वृत्तो ह्रीनिषेवश्च यस्मा-
त्तस्माच्छिबिरत्यगाद्वै रथेन। 1-87-42(3835)
वैशम्पायन उवाच।
अथाष्टकः पुनरेवान्वपृच्छ-
न्मातामहं कौतुकेनेन्द्रकल्पम्॥ 1-87-42x(562)
पृच्छामि त्वां नृपते ब्रूहि सत्यं
कुतश्च कश्चासि सुतश्च कस्य।
कृतं त्वया यद्धि न तस्य कर्ता
लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा॥ 1-87-43(3836)
ययातिरुवाच। 1-87-44x(563)
ययातिरस्मि नहुषस्य पुत्रः
पूरोः पिता सार्वबौमस्त्विहासम्।
गुह्यं चार्थं मामकेभ्यो ब्रवीमि
मातामहोऽहं भवतां प्रकाशम्॥ 1-87-44(3837)
सर्वामिमां पृथिवीं निर्जिगाय
दत्त्वा प्रतस्थे विपिनं ब्राह्मणेभ्यः।
मेध्यानश्वानेकशतान्सुरूपां-
स्तदा देवाः पुण्यभाजो भवन्ति॥ 1-87-45(3838)
अदामहं पृथिवीं ब्राह्मणेभ्यः
पूर्णामिमामखिलां वाहनेन।
गोभिः सुवर्णेन धनैश्च मुख्यै-
स्तदाऽददं गाः शथमर्बुदानि॥ 1-87-46(3839)
सत्येन मे द्यौश्च वसुन्धरा च
तथैवाग्निज्वर्लते मानुषेषु।
न मे वृथा व्याहृतमेव वाक्यं
सत्यं हि सन्तः प्रतिपूजयन्ति॥ 1-87-47(3840)
यदष्टक प्रब्रवीमीह सत्यं
प्रतर्दनं चौषदश्विं तथैव।
सर्वे च लोका मुनयश्च देवाः
सत्येन पूज्या इति मे मनोगतम्॥ 1-87-48(3841)
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत्।
अनसूयुर्द्विजाग्र्येभ्यः स लभेन्नः सलोकताम्॥ 1-87-49(3842)
वैशम्पायन उवाच। 1-87-50x(564)
एवं राजा स महात्मा ह्यतीव
स्वैर्दौहित्रैस्तारितोऽमित्रसाह।
त्यक्त्वा महीं परमोदारकर्मा
स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम्॥ ॥ 1-87-50(3843)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्ताशीतितमोऽध्यायः॥ 87 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-87-2 यत् यत् तपते प्रकाशयति॥ 1-87-4 शिशुकात् शैशवमारभ्य॥ 1-87-7 परीप्समानान् याचकान्। नावमंस्था नावमानं कृतवानसि। स्वनवन्तः संगीतादिध्वनियुक्ताः॥ 1-87-10 गन्तारो मृत्वा प्राप्स्यामः। नरकं भूलोकम्॥ 1-87-11 यतध्वं कर्तुम्। नाभिजानामि नाङ्गीकरोमि॥ 1-87-13 प्रकाशन्ते दृश्यन्ते। ज्वलन्तो दीप्यमानाः॥ 1-87-14 अकृतहोमसमाप्तीनामवभृथायोगात् होमोपि समापित इत्याह। अश्वमेध इति। पुरा स्वयंभुविहिते कर्तव्यतया विहिते अश्वमेधे अष्टकादिभिः क्रियमाणे॥ 1-87-41 सौम्यमक्रूरत्वम्। विधित्सा पालनेच्छा॥ 1-87-42 सत्यमेव श्रेयःसाधनमिति विधातुं पूर्वोक्तप्रश्नोत्तरे अनुवदति। अथाष्टक इत्यादिना॥ 1-87-44 प्रकाशं प्रागुक्तमपि स्पष्टतरम्॥ 1-87-45 एवं कृते सति पुण्यभाजः सन्तः देवा भवन्ति॥ सप्ताशीतितमोऽध्यायः॥ 87 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.